Wednesday 31 December 2014

mArkaNDeya stuti - padma purANa

ब्राह्मण उवाच -

नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीव नमो नम:
नारायण स्वरूपाय नमस्तुभ्यं महात्मने ||

नमो मृकण्डपुत्राय सर्वलोक हितैषिने
ज्ञानार्णवायवैतुभ्यं निर्विकारायवै नम: ||

स्तुतस्तेनेति विप्रेण मार्कण्डेयो महातपा:
उवाच परमप्रीत: सर्व शास्त्रार्थ पराग: ||

Wednesday 17 December 2014

Lakshmi-Nrsimha dvAdasha nAma stotram

श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्रम्

अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य
वेदव्यासो भगवान् ऋषिः
अनुष्टुप् छन्दः
श्री लक्ष्मीनृसिंहो देवता
श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥

पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः।
सप्तमो यातुहंता च अष्टमो देववल्लभः॥२॥

ततः प्रह्लादवरदो दशमोऽनंतहंतकः।
एकादशो महारुद्रः द्वादशो दारुणस्तथा॥३॥

द्वादशैतानि नृसिंहस्य महात्मनः।
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥४॥

क्षयापस्मारकुष्ठादि तापज्वर निवारणम्।
राजद्वारे महाघोरे संग्रामे च जलांतरे ॥५॥

गिरिगह्वरकारण्ये व्याघ्रचोरामयादिषु।
रणे च मरणे चैव शमदं परमं शुभम्॥६॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥७॥